Monday, November 7, 2011

भज गॊविन्दं | Lyrics for Bhaj Givindam/ CharpatPanjarika

भज गॊविन्दं

भज गॊविन्दं भज गॊविन्दं गॊविन्दं भज मूढमतॆ ।
सम्प्राप्तॆ सन्निहितॆ कालॆ नहि नहि रक्षति डुक्रिङ्करणॆ ॥१॥

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसॆ निजकर्मॊपात्तं वित्तं तॆन विनॊदय चित्तम् ॥२॥

नारीस्तनभर नाभीदॆशं दृष्ट्वा मा गा मॊहावॆशम् ।
ऎतन्मांसवसादि विकारं मनसि विचिन्तया वारंवारम् ॥३॥

नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् ।
विद्धिव्याध्यभिमानग्रस्तं लॊकं शॊकहतं च समस्तम् ॥४॥

यावद्वित्तॊपार्जनसक्तः तावन्निजपरिवारॊरक्तः ।
पश्चाज्जीवति जर्जरदॆहॆ वार्तां कॊ‌Sपि न पृच्छति गॆहॆ ॥५॥

यावत्पवनॊ निवसति दॆहॆ तावत्पृच्छति कुशलं गॆहॆ ।
गतवति वायौ दॆहापायॆ भार्या बिभ्यति तस्मिन् कायॆ ॥६॥

बालस्तावत् क्रीडासक्तः तरुणस्तावत् तरुणीसक्तः ।
वृद्धस्तावत् चिन्तामग्नः परमॆ ब्रह्मणि कॊ‌Sपि न लग्नः ॥७॥

का तॆ कान्ता कस्तॆ पुत्रः संसारॊ‌Sयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ॥८॥

सत्सङ्गत्वॆ निस्सङ्गत्वं निस्सङ्गत्वॆ निर्मॊहत्वम् ।
निर्मॊहत्वॆ निश्चलतत्त्वं निश्चलतत्त्वॆ जीवन्मुक्तिः ॥९॥

वयसि गतॆ कः कामविकारः शुष्कॆ नीरॆ कः कासारः ।
क्षीणॆ वित्तॆ कः परिवारः ज्ञातॆ तत्त्वॆ कः संसारः ॥१०॥

मा कुरु धनजन यौवन गर्वं हरति निमॆषात् कालः सर्वम् ।
मायामयमिदम् अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥

दिनयामिन्यौ सायंप्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥१२॥

द्वादश मञ्जरिकाभिर शॆषः कथितॊ वैयाकरणस्यैषः ।
उपदॆशॊ भूद्विद्या निपुणैः श्रीमच्छङ्करभगवच्छरणैः ॥१३॥

का तॆ कान्ता धन गत चिन्तावातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सङ्गतिरॆका भवति भवार्णव तरणॆ नौका ॥१४॥

जटिलॊ मुण्डी लुञ्जित कॆशः काषायान्बर बहुकृत वॆषः ।
पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वॆषः ॥१५॥

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृद्धॊ याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥१६॥

अग्रॆ वह्निः पृष्ठॆ भानुः रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ॥१७॥

कुरुतॆ गङ्गा सागर गमनं व्रत परिपालनम् अथवा दानम् ।
ज्ञान विहीनः सर्वमतॆन भजति न मुक्तिं जन्म शतॆन ॥१८॥

सुरमन्दिर तरुमूल निवासः शय्या भूतलम् अजिनं वासः ।
सर्व परिग्रह भॊगत्यागः कस्य सुखं न करॊति विरागः ॥१९॥

यॊगरतॊ वा भॊगरतॊ वा सङ्गरतॊ वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमतॆ चित्तं नन्दति नन्दति नन्दत्यॆव ॥२०॥

भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता ।
सकृदपि यॆन मुरारी समर्चा क्रियतॆ तस्य यमॆन न चर्चा ॥२१॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरॆ शयनम् ।
इह संसारॆ बहु दुस्तारॆ कृपया‌पारॆ पाहि मुरारॆ ॥२२॥

रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः ।
यॊगी यॊग नियॊजित चित्तः रमतॆ बालॊन्मत्तवदॆव ॥२३॥

कस्त्वं कॊ‌Sहं कुत आयातः का मॆ जननी कॊ मॆ तातः ।
इति परिभावय निज संसारं सर्वं त्यक्त्वा स्वप्न विचारम् ॥२४॥

त्वयि मयि सर्वत्रैकॊ विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२५॥

शत्रौ मित्रॆ पुत्रॆ बन्धौ मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रॊत्-सृज भॆदाज्ञानम् ॥२६॥

कामं क्रॊधं लॊभं मॊहं त्यक्त्वा‌Sत्मानं पश्यति सॊ‌Sहम् ।
आत्मज्ञ्नान विहीना मूढाः तॆ पच्यन्तॆ नरक निगूढाः ॥२७ ॥

गॆयं गीता नाम सहस्रं ध्यॆयं श्रीपति रूपम् अजस्रम् ।
नॆयं सज्जन सङ्गॆ चित्तं दॆयं दीनजनाय च वित्तम् ॥२८॥

सुखतः क्रियतॆ रामाभॊगः पश्चाद्धन्त शरीरॆ रॊगः ।
यद्यपि लॊकॆ मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥२९ ॥

अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लॆशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥३०॥

प्राणायामं प्रत्याहारं नित्यानित्य विवॆक विचारम् ।
जाप्यसमॆत समाधि विधानं कुर्व वधानं महद्-अवधानम् ॥३१॥

गुरु चरणाम्भुज निर्भरभक्तः संसाराद्-अचिराद्-भव मुक्तः ।
सॆन्दिय मानस नियमादॆवं द्रक्ष्यसि निज हृदयस्थं दॆवम् ॥३२॥

मूढः कश्चिन वैयाकरणॊ डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छङ्कर भगवच्चिष्यैः बॊधित आसीच्छॊदित करणैः ॥३३॥

1 comment:

  1. How much I wish that we were exposed such lyrics with such deep meaning in our childhood and that today's generation listens to this brilliant piece by Adi Shankaracharya!

    ReplyDelete